|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.84. अध्यायः 084
Mahabharata - Bhishma Parva - Chapter Topics
युधिष्ठिरादियुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-84-0x(4163)(42419)
ततो युधिष्ठिरो राजा मध्यं प्राप्ते दिवाकरे।
श्रुतायुपमभिप्रेक्ष्य प्रेषयामास वाजिनः ॥ 6-84-1(42420)
ततस्तु त्वरितो राजञ्श्रुतायुषमरिन्दमन् ।
निजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिःक ॥ 6-84-2(42421)
स संवार्य रमे राजा प्रेषितान्धर्मसूनुना ।
शरान्सप्त महेष्वासः कौन्तेयाया समार्षयत्॥ 6-84-3(42422)
ते तस्व कवचं भित्त्वा पपुः शोणितमाहवे।
असूनिव विचिन्वन्तो देहे तस्य महात्मनः ॥ 6-84-4(42423)
पाण्डवस्तु भृशं क्रुद्धो विद्धस्तेन महात्मना ।
रणे वराहकर्णेन राजानं हृद्यविध्यता ॥ 6-84-5(42424)
अथापरेण भल्लेन केतुं तस्य महात्मनः ।
रथश्रेष्ठो रथात्तूर्णं भूमौ पार्थो न्यपातयत् ॥ 6-84-6(42425)
केतु निपतितं दृष्ट्वा श्रुतायुः स तु पार्थिवः ।
पाण्डवं विशिखैतीक्ष्णै राजन्विव्याध सप्तभिः ॥ 6-84-7(42426)
ततः क्रोघात्प्रजज्वल धर्मपुत्रो युधिष्ठिरः ।
यथा युगान्ते भूतानि दिधक्षुरिव पावकः ॥ 6-84-8(42427)
क्रुद्धं तु पाण्डवं दृष्ट्वा देवगन्धर्वराक्षसाः ।
प्रविव्यधुर्महाराज व्याकुलं जाप्यभूज्जगत् ॥ 6-84-9(42428)
सर्वेषां चैव भूतानामिदमासीन्मनोगतम् ।
त्रींल्लोकान्म संक्रुद्धो नृपोऽयं धक्ष्यतीति वै ॥ 6-84-10(42429)
ऋष..... देवाश्च चक्रुः स्वस्त्ययनं महत्।
लोकानां नृपाशान्त्यर्थं क्रोधिते पाण्डवे तदा ॥ 6-84-11(42430)
स च क्रोधसमाविष्टः सृक्विणी परिसंलिहन ।
इवारात्सवपुर्घोरं युगान्तादित्यसन्निभम् ॥ 6-84-12(42431)
ततः सैन्यानि सर्वाणि तावकानि विशांपते ।
निराशान्यभवंस्तत्र जीवितं प्रति भारत ॥ 6-84-13(42432)
स तु धैर्येण तं कोपं सन्निवार्य महायशाः ।
श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महाधनुः ॥ 6-84-14(42433)
अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे ।
निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ॥ 6-84-15(42434)
सत्वरं च रणे राजंस्तस्य वाहान्महात्मनः ।
निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ॥ 6-84-16(42435)
हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञोऽस्य पौरुषम् ।
विप्रदुद्राव वेगेन श्रुतायुः समरे तदा॥ 6-84-17(42436)
तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे।
दुर्योधनबलं राजन्सर्वमासीत्पराङ्भुखम् ॥ 6-84-18(42437)
एवं जित्वा महाराज धर्मपुत्रो युधिष्ठिरः ।
व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ॥ 6-84-19(42438)
चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् ।
प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ॥ 6-84-20(42439)
संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि।
चेकितानां रणे यत्तं राजन्विव्याध पत्रिभिः ॥ 6-84-21(42440)
अथापरेण भल्लेन धनुश्चिच्छेद मारिष ।
सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ॥ 6-84-22(42441)
अश्वांस्छास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ।
अवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः ॥ 6-84-23(42442)
स तया वीरघातिन्या गदया गदिनां वरः ।
गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् ॥ 6-84-24(42443)
भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडशक ।
शरास्ते सात्वतं भित्त्वा प्राविशन्धरणीतलम् ॥ 6-84-25(42444)
चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् ।
गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरन्दरः ॥ 6-84-26(42445)
तामापतन्तीं विमलामश्यमगर्भां महागदाम्।
शरैरनेकसाहस्त्रैर्वारयामास गौतमः ॥ 6-84-27(42446)
चेकितानस्ततः खङ्गं क्रोधादुद्धृत्य भारत।
लाघवं परमास्थाय गौतमं समुपाद्रवत् ॥ 6-84-28(42447)
गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंयतः ।
वेगेन महता राजंश्चेकितानमुपाद्रवत् ॥ 6-84-29(42448)
तावुभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ ।
निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं संततक्षतुः ॥ 6-84-30(42449)
निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ ।
धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ॥ 6-84-31(42450)
मूर्छयाऽभिपरीताङ्गौ व्यायामेन तु मोहितौ ।
ततोऽभ्यधावद्वेगेन भीमसेनः सुहृत्तया ॥ 6-84-32(42451)
चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदः ।
रथमारोपयच्चैनं सर्वसैकन्यस्य पश्यतः ॥ 6-84-33(42452)
तथैव शकुनि शूरः स्यालस्तव विशांपतेक ।
आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ॥ 6-84-34(42453)
सौमदत्तिं ततः क्रुद्धो धृष्टकेतुर्महाबलः ।
नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि ॥ 6-84-35(42454)
सौमदत्तिरुरस्थैस्तैर्भृशं बाणैरशोभत ।
मध्यंदिने महाराज रश्मिभिस्तपनो यथा ॥ 6-84-36(42455)
भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् ।
हतसूतहयं चक्रे विरथं सायकोत्तमैः ॥ 6-84-37(42456)
विरथं तं समालोक्य हताश्वं हतसारथिम् ।
महता शरवर्षेण च्छादयामास संयुगे ॥ 6-84-38(42457)
स तु तं रथमुत्सृज्य धृष्टकेतुर्महामनाः ।
आरुरोह ततो यानं शतानीकस्य मारिष ॥ 6-84-39(42458)
चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा।
रथिनो हेमसन्नाहाः सौभद्रमभिदुद्रुवुः ॥ 6-84-40(42459)
अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत।
शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ॥ 6-84-41(42460)
विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे ।
न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ॥ 6-84-42(42461)
ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः ।
संवृतं समरे भीष्मं देवैरपि दुरासदम् ॥ 6-84-43(42462)
प्रयान्तं शीघ्रमुद्वीक्ष्य परित्रातुं सुतांस्तव ।
अभिमन्युं समुद्दिश्य बालमेकं महारथम् ॥ 6-84-44(42463)
वासुदेवमुवाचेदं कौन्तेयः श्वेतवाहनः ।
चोदयाश्वान्हृषीकेश यत्रैते बहुला रथाः ॥ 6-84-45(42464)
एते हि बहवः शूराः कृतास्त्रा युद्धदुर्मदाः।
यथा हन्युर्न नः सेनां तथा माधव चोदय ॥ 6-84-46(42465)
एवमुक्तः स वार्ष्णेयः कौन्तेयेनामितौजसा ।
रथं श्वेतहयैर्युक्तं प्रेषयामास संयुगे ॥ 6-84-47(42466)
निष्ठानको महानासीत्तव सैन्यस्य मारिष ।
यदर्जुनो रणे क्रुद्धः संयातस्तावकान्प्रति ॥ 6-84-48(42467)
समासाद्य तु कौन्तेयो राज्ञस्तान्भीष्मरक्षिणः ।
सुशर्माणमथो राजन्निदं वचनमब्रवीत् ॥ 6-84-49(42468)
जानामि त्वां युधां श्रेष्ठमत्यन्तं पूर्ववैरिणम् ।
अनयस्याद्य संप्राप्तं फलं पश्य सुदारुणम् ॥ 6-84-50(42469)
अद्य ते दर्शयिष्यामि पूर्वप्रेतान्पितामहान् ।
एवं संजल्पतस्तस्य बीभत्सोः शत्रुघातिनः ॥ 6-84-51(42470)
श्रुत्वापि परुषं वाक्यं सुशर्मा रथयूथपः ।
न चैनमब्रवीत्किंचिच्छुभं वा यदि वाऽशुभम् ॥ 6-84-52(42471)
अभिगम्यार्जुनं वीरं राजभिर्बहुभिर्वृतः।
पुरस्तात्पृष्ठतश्चैव पार्श्वतश्चैव सर्वतः ॥ 6-84-53(42472)
परिवार्यार्जुनं सङ्ख्ये तव पुत्रैर्महारथः ।
शरैः संछादयामास मेघैरिव दिवाकरम् ॥ 6-84-54(42473)
6-84-55(42474)
ततः प्रवृत्तः सुमहान्संग्रामः शोणितोदकः।
तावकानां च समरे पाण्डवानां च भारत ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|